संस्कृत-शब्दकोशः

लोष्ट्र लोहकण्टक

लोह

वाचस्पत्यम्

लोह ||‍ पुंन० लू—विच् लौस्तं जहाति हा—क । १ धातुभेदे अमरः । २ धातुमात्रे मेदि० ३ रुधिरे राजनि० ४ अगुरु- चन्दने न० अमरः । धातुभेदस्वरूपादि भावप्र० उक्तं यथा “अथ लोहस्योत्पत्तिनामलक्षणगुणाः “पुरा लोमि- लदैत्यानां निहतानां सुरेर्युधि । उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च । लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । गुरुतादृढतोत्क्लेदकफ- दाहस्य कारिता । अश्मदोषः सुदुगन्धो दोषाः सप्ताय- सस्य तु । लोहं तिक्तरसं शीतं मधुरं तुवरं गुरु । रुक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् । कफं पित्तं परं शूलं शोथार्शःप्लीहपाण्डुताः । मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्वदेव हि । पाण्डुत्वकुष्ठामयमृत्युदं भ- {??} हृद्रोगशूलौ कुरुतेऽश्मरीञ्च । नानारुजाञ्चापि तथा प्रकोपं करोति हृल्लासमशुद्धलोहम् । जीपहारि मद- कारि चायर्स चेदशुद्धिमदसंस्कृतं ध्रुवम् । पाटवं न तनुते शरीरके दारुणां हृदि रुजाञ्च यच्छति । कुद्माण्डं तिलतैलञ्च माषान्नं राजिकां तथा । मद्य- मम्लरसञ्चापि त्यजेल्लोहस्य सेवकः” । तत्र सारलोहस्य लक्षणं गुणाश्च “क्षमामृच्छिखराकाराण्यङ्गान्यम्लेन लेपयेत् । लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते । लोहसारो ह्ययं हन्याद्ग्रहणीमतिसारकम् । अर्द्ध- सर्वाङ्गजं वातं शूलञ्च परिणामजम् । छर्दिञ्च पीनसं पित्तं श्वासं कासं व्यपोहति” । अथ कान्तलोहस्य लक्षणं गुणाश्च । “यत् पात्रेण प्रसरति जले तैल- विन्दुः प्रतप्ते हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां निम्बवल्कः । तप्तं दुग्धं भवति शिखराकारकं नैति भूमिं कृष्णाङ्गः स्यात् सजलचणकः कान्तलोहं तदुक्तम् । गुल्मोदरार्शःशूलाममामवातं भगन्दरम् । कामलाशोथकुष्ठानि क्षयं कान्तमयो हरेत् । प्लोहान- मम्लपित्तञ्च यकृच्चापि शिरोरुजम् । सर्वान् रोगान् विजयते कान्तलोहं न संशयः । तलं वीर्य्यं वपःपष्टिं कुरुतेऽग्निं विवर्द्धयेत् । अथ किदम्य “ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते । लोहसिंहानिका किट्टं सिंहानञ्च निगद्यते । यल्लोहं यद्गुणं प्रोक्तं तत्किट्ट मपि तद्गुणम्” । अथ लोहस्य दोषशान्तये शोधनमभि- धीयते “पत्तलीकृतपत्राणि लोहस्याग्नौ प्रतापयेत् । निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके । गोमूत्रे च कुलत्थानां कषाये च त्रिधात्रिधा । एवं लोहस्य पत्राणां विशुद्धिः संप्रजायते” । अथ लोहस्य मारण- विधिः “शुद्धलोहभवं चूर्णं पातालगरुडीरसैः । मर्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटद्वयम् । पुटत्रयं कुमार्य्याश्च कुठारच्छिल्लिकारसैः । पुटषट्कं ततो दद्यादेवं तीक्ष्णा मृतिर्भवेत्” । अन्यच्च । “क्षिपेद्द्वादशर्माशेन दरदं तीक्ष्णचूर्णतः । मर्दयेत् कन्यकाद्रावैर्यामयुग्मं ततः पुटेत् । एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात् । सत्याऽनुभूतो योगीन्द्रैः क्रमोऽन्यो लोहमारुणे । कथ्यते रामराजेन कौतूहलधियाऽधुना । सूतकद्द्विगुण गन्धं दत्त्वा कुर्य्याच्च कज्जलीम् । द्वयोः सर्म लोहचूर्णं मर्द्दयेत् कन्यकाद्रवैः । यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके । घर्मे धृत्वा रूचकस्य पत्रैराच्छादवेद्- वुधः । यामद्वयाद्भवेदुष्णं धान्यराशो न्यसेत्ततः । दत्त्वोपरि शरावञ्च त्रिदिनान्ते समुद्धरेत् । पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत् । दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा । तद्रसेनायसश्चूर्णं सन्नीयात् प्लावयेदपि । आतपे शोधयेत्तच्च पुटेदेवं पुनः पुनः । एकविशतिवारैस्तन्म्रियते नात्र संशयः । एव सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत्” । एवं मारितलोहस्य गुणाः “लोहं तिक्तं सरं शीतं कषायं मधुरं गुरु । रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् । कफं पित्तं गरं शूलं शोफार्शःप्लीहपाण्डुताः । मेदोमेहक्रमीन् कुष्ठं तत्किट्टं तद्वदेव हि । गुञ्जामेकां समारभ्य यावत् स्युर्नव रत्तिकाः । तावल्लोहं समश्नीयाद्यथादोषानलं परः । कुष्माण्डं तिलतैलञ्च माषान्नं राजिकान्तथा । मद्यमम्लरसञ्चव वर्जयेल्लोहसेवकः” भावप्र० । “यदा तु आ- यसे पात्रे पक्वमश्नाति वै द्विजः । स पापिष्ठोऽपि भुङ्- क्तेऽन्नं रौरवे परिपच्यते” मत्स्यपु० । “अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च । भृष्टादिकं मधु गुडं नारिकेलोदकं तथा । फलं मूलञ्च यत् किञ्चिदभक्ष्य मनुरब्रवीत् “ब्रह्मवै० ।


शब्दकल्पद्रुमः

लोहं || क्ली अगुरु । इत्यमरः ॥ (अथास्य पर्य्यायः । “अगुरुप्रवरं लोहं राजार्हं योगजन्तथा । वंशिकं क्रिमिजं वापि क्रिमिजग्धमनार्यकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)


शब्दकल्पद्रुमः

लोहः || पुं, क्ली, (लूयतेऽनेनेति । लू + बाहुलकात् हः ।)
लौहम् । जोङ्गकम् । सर्व्वतैजसम् । इति मेदिनी । हे, ८ ॥ रुधिरम् । इति राजनिर्घण्टः ॥ अथ मुण्डलोहस्य पर्य्यायः । मुण्डम् २ मुण्डा- यसम् ३ दृषत्सारम् ४ शिलात्मजम् ५ अश्म- जम् ६ कृषिलोहम् ७ आरम् ८ कृष्णायसम् ९ ॥ अथ तीक्ष्णलोहस्य पर्य्यायः । तीक्ष्णम् २ शस्त्रायसम् ३ शस्त्रम् ४ पिण्डम् ५ पिण्डा- यसम् ६ शठम् ७ आयसम् ८ निशितम् ९ तीव्रम् १० खड्गम् ११ मुण्डजम् १२ अयः १३ चित्रायसम् १४ चीनजम् १५ । अस्य गुणाः । रूक्षत्वम् । उष्णत्वम् । तिक्तत्वम् । वातपित्त- कफप्रमेहपाण्डुशूलनाशित्वम् । तीक्ष्णत्वम् । मुण्डाधिकगुणत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अथ लोहस्योत्पत्तिनामलक्षणगुणाः । “पुरा लोमिलदैत्यानां निहतानां सुरैर्युधि । उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च ॥ लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालाय- सायसी । गुरुता दृढतोत्क्लेदकफदाहस्य कारिता । अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु ॥ लोहं तिक्तरसं शीतं मधुरं तुवरं गुरु । रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् ॥ कफं पित्तं गरं शूलं शोथार्शःप्लीहपाण्डुताः । मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्बदेव हि ॥ षण्डत्वकुष्ठामयमृत्युदं भवेत् हृद्रोगशूलौ कुरुतेऽश्मरीञ्च । नानारुजाञ्चापि तथा प्रकोपं करोति हृल्लासमशुद्धलोहम् ॥ जीवहारि मदकारि चायसं चेदशुद्धिमदसंस्कृतं ध्रुवम् । पाटवं न तनुते शरीरके दारुणां हृदि रुजाञ्च यच्छति ॥” * ॥
तत्र सारलोहस्य लक्षणं गुणाश्च । “क्षमाभृच्छिखराकाराण्यङ्गान्यम्लेन लेपिते । लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते ॥ लोहं साराह्वयं हन्याद्ग्रहणीमतिसारकम् । अर्द्धसर्व्वाङ्गजं वातं शूलञ्च परिणामजम् । छर्द्दिञ्च पीनसं पित्तं श्वासमाशु व्यपोहति ॥” अथ कान्तलोहस्य लक्षणं गुणाश्च । पत्पात्रे न प्रसरति जले तैलबिन्दुः प्रतप्ते हिङ्गुर्गन्धं त्यजति चनिजं तिक्ततां निम्बकन्दः । तप्तं दुग्धं भवति शिखराकारकं नैति भूमिं कृष्णाङ्गः स्यात् सजलचणकः कान्तलोहं तदुक्तम् ॥ गुल्मोदरार्शःशूलाममामवातं भगन्दरम् । कामलाशोथकुष्ठानि क्षयं कान्तमयो जयेत् ॥ प्लीहानमम्लपित्तञ्च यकृच्चापि शिरोरुजम् । सर्व्वान्रोगान् विजयते कान्तलोहं न संशयः । बलं वीर्य्यं वपुःपुष्टिं कुरुतेऽग्निं विवर्द्धयेत् ॥” अथ किट्टी । “ध्मायमानस्य लोहस्य मलं मण्डूरमुच्यते । लोहसिंहानिका किट्टी सिंहानञ्च निगद्यते ॥ यल्लोहं यद्गुणं प्रोक्तं तत्किट्टमपि तद्गुणम् ॥” अथ लोहस्याशुद्धस्य दोषमाह । “षण्डत्वकुष्ठामयमृत्युकारि हृद्रोगशूलौ कुरुतेऽश्मरीञ्च । नानारुजानाञ्च तथा प्रकोपं कुर्य्याच्च हृल्लासमशुद्धलोहम् ॥” अथ लोहस्य दोषशान्तये शोधनमभिधीयते । “पत्तलीकृतपत्राणि लोहस्याग्नौ प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा । एवं लोहस्य पत्राणां विशुद्धिः संप्रजायते ॥” अथ लोहस्य मारणविधिः । “शुद्धलोहभवं चूर्णं पातालगरुडीरसैः । मर्द्दयित्वा पुटेद्वह्रौ दद्यादेवं पुटद्धयम् ॥ पुटत्रयं कुमार्य्याश्च कुठारच्छिल्लिकारसैः । पुटषट्कं ततो दद्यादेवं तीक्ष्णमृतिर्भवेत् ॥” अन्यच्च । “क्षिपेद्द्वादशमांशेन दरदं तीक्ष्णचूर्णतः । मर्द्दयेत् कन्यकाद्रावैर्यामयुग्मं ततः पुटेत् । एवं सप्तपुटैर्मृत्युं लोहचूर्णमवाप्नुयात् ॥ सत्योऽनुभूतो योगीन्द्रैः क्रमोऽन्यो लोहमारणे । कथ्यते रामराजेन कौतूहलधियाधुना ॥ सूतकाद्द्विगुणं गन्धं दत्त्वा कुर्य्याच्च कज्जलीम् । द्वयोः समं लौहचूर्णं मर्द्दयेत् कन्यकाद्रवैः ॥ यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके । घर्म्मे धृत्वा रूवुकस्य पत्रैराच्छादयेद्बुधः ॥ यामद्बयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः । दत्त्वोपरि शरावञ्च त्रिदिनान्ते समुद्धरेत् ॥ पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत् । दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा ॥ तद्रसेनायसश्चूर्णं सन्नीयात् प्लावयेदपि । आतपे शोषयेत्तच्च पुटेदेव पुनः पुनः । एकविंशतिवारैस्तत्म्रियते नात्र संशयः । एवं सर्व्वाणि लोहानि स्वर्णादीन्यपि मारयेत् ॥” एवं मारितलोहस्य गुणाः । “लोहं तिक्तं सरं शीतं कषायं मधुरं गुरु । रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् ॥ कफं पित्तं गरं शूलं शोफार्शःप्लीहपाण्डुताः । मेदोमेहकृमीन् कुष्ठं तत्किट्टं तद्बदेव हि ॥ गुञ्जामेकां समारभ्य यावत् स्युर्नवरक्तिकाः । तावल्लोहं समश्नीयाद्यथादोषानलं नरः ॥ कुष्माण्डं तिलतैलञ्च माषान्नं राजिकान्तथा । मद्यमम्लरसञ्चैव वर्जयेल्लोहसेवकः ॥” इति भावप्रकाशः ॥ लोहपात्रे भक्षणनिषेधो यथा, —
“यदा तु आयसे पात्रे पक्वमश्नाति वै द्बिजः । स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते ॥” इति मत्स्यसूक्ततन्त्रम् ॥ अपि च । “अयःपात्रे पयःपानं गव्यं सिद्धान्नमेव च । भृष्टादिकं मधु गुडं नारिकेलोदकन्तथा ॥ फलं मूलञ्च यत्किञ्चिदभक्ष्यं मुनिरब्रवीत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ (अश्मन एवास्य उत्पत्तिः श्रूयते । यथा, मनुः । ९ । ३२१ । “अद्भ्योऽग्निर्ब्रह्मतः क्षत्त्रमश्मनो लोहमुत्थितम् । तेषां सर्व्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥” पुं, छागः । स तु लक्षणान्वितः कृष्णवर्णो रक्त- वर्णो वा । यथा, मनुः । ३ । २७२ । “कालशाकं महाशल्काः खड्गलोहामिषं मधु । आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्व्वशः ॥” पार्व्वत्यजातिविशेषः । यथा, महाभारते । २ । २७ । २५ । “लोहान् परमकाम्बोजानृषिकानुत्तरानपि । सहितांस्तान् महाराज व्यजयत् पाक- शासनिः ॥” रक्तवर्णे, त्रि । यथा, महाभारते । १ । १३६ । २३ । “भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । पञ्चबाणान् सुसंयुक्तान् स मुमोचैकबाणवत् ॥”)



Correction: