संस्कृत-शब्दकोशः

लोहाभिसार लोहार्गल

लोहाभिहार

वाचस्पत्यम्

लोहाभिहार is an alternate of लोहाभिसार. लोहाभिसा(हा)र ||‍ पु० लोहं तन्मयशस्त्रम अभिस्रि(ह्रि)- यतेऽत्र अभि + सृ—(ह)—वा आधारे घञ् । राज्ञां युद्धयात्रादौ शस्त्रनीराजनाविधौ अमरः ।


शब्दकल्पद्रुमः

लोहाभिहारः || पुं, (लोहानामभिहारो यत्र ।)
शस्त्रभृतां राज्ञां नीराजनाविधिः । इत्यमरः ॥ महानवमीदीक्षायां अश्वादीनां नीराजने सति पश्चात् शस्त्रधारिणां राज्ञां यः शास्त्रोक्तो निर्म्मञ्छनप्रधानो विधिः प्रस्थानात् प्राक् स लोहाभिहारः । लोहस्य शस्त्रस्य अभिहारः सर्व्वतो हरणमत्रेति बहुव्रीहिः । लोहाभिहार इत्युक्तो विधिर्नीराजनोत्तर इत्यमरमाला ॥ लोहोऽस्त्री शस्त्रके लौहे इति मेदिनी ॥ लोहा- भिसार इति पठन्त्यन्ये तत्र लोहं शस्त्र अभि- सार्य्यते प्रस्थाप्यतेऽत्रेति घञ् वाहनायुधादे- र्निःशेषेण राजनं यत्र सा नीराजना नीरस्य शान्त्युदकस्य अजनं क्षेपो यत्र सा नीराजना वा । इति भारतः ॥



Correction: