संस्कृत-शब्दकोशः

लौड लौहचारक

लौह

वाचस्पत्यम्

लौह ||‍ पु० लोहमेव स्वार्थे अण् । (लोया) १ धातुभेदे भरतः । २ धातुमात्रे च ।


शब्दकल्पद्रुमः

लौहः || पुं, (लोह एव । प्रज्ञाद्यण् ।)
लोहः । इत्यमरटीकायां भरतः ॥ स च पञ्चविधः । यथा । काञ्चिः १ पाण्डिः २ कान्तः ३ कालिङ्गः ४ वज्रकः ५ । अस्य त्रयोदशविध- संस्काराः । यथा । शालिघर्षणम् १ उद्वर्त्तनम् १ अम्लभावनम् ३ आतपशोषः ४ निषेकः ५ मारणम् ६ दलनम् ७ क्षालनम् ८ सूर्य्यपाकः ९ स्थालीपाकः १० चूर्णनम् ११ पुटपाकः १२ पाकनिष्पन्नः १३ । अस्य गुणाः । आयुर्ब्बल- वीर्य्यकामदातृत्वम् । रोगनाशित्वम् । श्रेष्ठ- तमरसायनत्वञ्च । कृष्णवर्णस्य तस्य गुणाः । शोथशूलार्शःकुष्ठपाण्डुप्रमेहमेदवायु-नाशित्वम् । वयःस्थैर्य्यचक्षुस्तेजःकारित्वम् । सारकत्वम् । गुरुत्वञ्च । शोधितस्यास्य गुणौ । सर्व्वरोग- नाशित्वम् । मरणनाशित्वञ्च । अशुद्धस्य तस्य गुणाः । जारणायोग्यत्वम् । आयुर्नाशकत्वञ्च । इति रत्नावल्यादयः ॥ * ॥
(अथास्य शोधनादि- नियमः । “त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् । ततः क्वाथे पादशेषे लौहस्य पलपञ्चकम् ॥ कृत्वा तप्ताणि पत्राणि सप्तवारं निषेचयेत् । ध्रुवं प्रलीयते दोषो गिरिजे लोहसम्भवः ॥” इति लोहशोधनम् ॥ * ॥
“भानुपाकात्तथा स्थालीपाकाच्च पुटपाकतः । निरुत्थो जायते लौहो यथोक्तफलदो भवेत् ॥” इति संक्षिप्तलौहमारणम् ॥ * ॥
“द्वादशांशेन दरदं तीक्ष्णचूर्णस्य मेलयेत् । कन्यानीरेन संमर्द्द्य यामयुग्मञ्च संपुटे । पुटेदेवं लौहचूर्णं सप्तधा मारणं व्रजेत् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥”)
अन्यत् लोहशब्दे द्रष्टव्यम् ॥ (छाग- विशेषः । यथा, महाभारते । १३ । ८८ । १३ । “अजेन वापि लौहेन मघास्वेव यतव्रतः । हस्तिच्छायासु विधिवत् कर्म्म व्यजनवीजितम् ॥” लोहशब्दार्थोऽप्यत्र ॥)



Correction: