संस्कृत-शब्दकोशः

लौहितीक ल्पी

लौहित्य

वाचस्पत्यम्

लौहित्य ||‍ न० लोहितस्य भावः ष्यञ् स्वार्थे ष्यञ् वा । १ रक्त- वर्णे २ रक्तत्वे “लोहितात् सरसो जातो लोहित्यस्तु ततो ऽभवत्” उक्ते ३ ब्रह्मपुत्रनदभेदे । “तीर्णलौहित्ये” रघुः ।


शब्दकल्पद्रुमः

लौहित्यं || क्ली (लोहितस्य भावः । लोहित + ष्यञ् ।)
लोहितत्वम् । इति मेदिनी । ये, १०२ ॥


शब्दकल्पद्रुमः

लौहित्यः || पुं, (लोहित एव । स्वार्थे ष्यञ् ।)
नदभेदः । स च ब्रह्मपुत्त्रः । इति मेदिनी । ये, १०२ ॥ सागरः । इति शब्दमाला ॥ तस्य नदविशेषस्य उत्पत्तिर्यथा, — सगर उवाच । “अमोघायां कथं जज्ञे लौहित्यो ब्रह्मणः सुतः । कथं शान्तनुभार्य्यायां रतः स कमलासनः ॥ पारस्त्रैणेयपुत्त्रो वा कथं जज्ञे पितामहात् । तत् सर्व्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम ॥ और्व्व उवाच । शृणु त्वं नृपशार्द्दूल कथयामि महत्तरम् । आख्यानं ब्रह्मपुत्त्रस्य लौहितस्य महात्मनः ॥ हरिवर्षे महावर्षे शान्तनुर्नाम नामतः । मुनिरासीन्महाभागो ज्ञानवान् सुतपोधनः ॥ तस्य भार्य्या महाभागा अमोघाख्या महा- सती । हिरण्यगर्भस्य मुनेस्तृणवृन्दाश्रमोद्भवा ॥ तया सार्द्धं स कैलासमर्य्यादापर्व्वतेऽवसत् । लोहित्याख्यस्य सरसस्तीरे वै गन्धमादने ॥ एकदा स तपोनिष्ठो निजपुष्पादिगोचरे । जगाम वनमध्यन्तु चिन्वन् बहुफलानि च ॥ तस्मिन्नवसरे ब्रह्मा सर्व्वलोकपितामहः । तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया ॥ तां दृष्ट्वा हेमगर्भाभां युवतीमतिसुन्दरीम् । मोहितो मदनेनाशु तथाभूद्दूषितेन्द्रियः ॥ उदीरितेन्द्रियो भूत्वा जिघृक्षुस्तां महासतीम् । अथाधावत्तदा ब्रह्मा संमुखो मदनार्द्दितः ॥ धावमानं विधातारं दृष्ट्वामोघा महासती । मैवं मैवमिति प्रोक्त्वा पर्णशालां व्यलीयत ॥ इदञ्चोवाच धातारममोघा कुपिता तदा । पर्णशालात्तरगता द्वारमावृत्य तत्क्षणात् ॥ अकार्य्यं न मया कार्य्यं मुनिपत्न्या विगर्हितम् । बलात् प्रमथ्ये चाहं तत्त्वया त्वाञ्च शपाम्यहम् ॥ अमोघया चैवमुक्ते विधातुश्च तदा नृप । रेतश्चस्कन्द च तदैवाश्रमे शान्तनोर्मुनेः ॥ च्युते रेतसि धातापि हंसयानं समास्थितः । लज्जयातिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ ॥ गते वेधसिं शान्तनुर्निजमाश्रममागतः । आगत्य दृष्ट्वा हसानां पदक्षोभं तथा भुवि ॥ तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम् । अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् ॥ किमेतदत्र शुभगे प्रवृत्तं दृश्यते तु यत् । पक्षिणाञ्च पदक्षोभं तेजश्चेदञ्च कीदृशम् ॥ सा तस्य वचन श्रुत्वा शान्तनुं मुनिसत्तमम् । अमर्षितेव न्यगददाकुला विकलानना ॥ हंसयुक्तस्यन्दनेन कोऽप्यागत्य चतुर्मुखः । कमण्डलुकरो भीरू रतिं मां समयाचत ॥ ततो मया मर्त्सितश्च उटजान्तरलीनया । प्रच्याव्य तेजः संयातो मम शापभयार्द्दितः ॥ कुरु तत्र प्रतीकारं यदि शक्नोषि शान्तनो । न हि मां धर्षणां सोढुं कश्चित् शक्रोति जीव- भृत् ॥ स तस्या वचनं श्रुत्वा स्वयं ब्रह्मा समागतः । इति निश्चित्य मनसा तत्र ध्यानपरोऽभवत् ॥ दिव्यध्यानेन तज्ज्ञात्वा देवकार्य्यमुपस्थितम् । तीर्थावतारणञ्चापि हिताय जगतां मुनिः ॥ ध्यात्वोदर्कं चिन्तयित्वा स्वभार्य्यामिदमब्रवीत् । इदं तेजो ब्रह्मणस्त्वं पिबामोघे ममाज्ञया ॥ हिताय सर्व्वजगतां देवकार्य्यार्थसिद्धये । भवत्या निकटं ब्रह्मा स्वयमेव समागतः ॥ त्वामप्राप्य महाकृत्यमावयोः स समर्प्य च । गतो निजास्पदं तत्त्वं कर्त्तुमर्हसि तद्वचः ॥ तत् श्रुत्वा शान्तनोर्व्वाक्यममोघातीव लज्जिता । सान्त्वयन्तीव तं प्राह पतिं नत्वा महासती ॥ नान्यस्य तेजो धास्यामि न चेत्ते विमनस्कता । अवश्यं यदि कर्त्तव्यं पीत्वा त्वं मयि चोत्सृज ॥ ततस्तस्या वचः श्रुत्वा युक्तं तथ्यञ्च शान्तनुः । स्वयं पीत्वा च तत्तेजस्तस्या गर्भे व्यसेचयत् ॥ संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती । गर्भं दधानामोघाख्या हिताय जगतां ततः ॥ तस्यां काले तु संप्राप्ते संजातो जलसञ्चयः । तन्मध्ये तनयश्चापि नीलवासाः किरीटधृक् ॥ रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् । चतुर्भुजः पद्मविद्याधरशक्तिधरस्तथा ॥ शिशुभारशिरःस्थश्च तुल्यकायो जलोत्करैः । तं जातञ्च तथा भूतं शान्तनुर्लोकशान्तनुः । चतुर्णां पर्व्वतानाञ्च मध्यदेशे न्यवेशयत् ॥ कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः । जारुधिः पश्चिमे शैलः पूर्व्वे सम्बर्त्तकाह्वयः ॥ तेषां मध्ये स्वयं कुण्डं पर्व्वतानां विधेः सुतः । कृत्वातिववृधे नित्यं शरदीव निशाकरः ॥ तं तोयमध्यगं पुत्त्रमासाद्य द्रुहिणः स्वयम् । क्रमतस्तस्य संस्कारानकरोद्देहशुद्धये ॥ अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः । तोयराशिस्वरूपेण ववृधे पञ्चयोजनान् ॥ तस्मिन् देवाः पपुः सस्नुर्द्वितीय इव सागरे । शीतामलजले हृद्ये देव्यश्चाप्सरसां गणैः ॥ तस्मिन्नवसरे रामो जामदग्न्यः प्रतापवान् । चक्रे मातृवधं घोरमत्युग्रं पितुराज्ञया ॥ तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः । स जगाम महाकुण्डं ब्रह्माख्यं स्नातुमिच्छया ॥ तत्र स्नात्वा च पीत्वा च मातृहत्यां व्यपानयत् । वीथीं परशुना कृत्वा तञ्च क्ष्मामवतारयत् ॥” इति कालिकापुराणे जामदग्न्योपाख्याने ८४ अध्यायः ॥ * ॥
अपि च । “जातसंप्रत्ययः सोऽथ तीर्थमासाद्य तं वरम् । वीथीं परशुना कृत्वा ब्रह्मपुत्त्रमवाहयत् ॥ ब्रह्मकुण्डात् सुतः सोऽथ कासारे लोहिताह्वये । कैलासोपत्यकायान्तु न्यपतद्ब्रह्मणः सुतः ॥ तस्यापि सरसस्तीरं समुत्थाय महाबलः । कुठारेण दिशं पूर्व्वामनयद्ब्रह्मणः सुतम् ॥ ततोऽपरत्रापि गिरिं हेमशृङ्गं विभिद्य च । कामरूपान्तरं पीठमवाहयदमुं हरिः ॥ तस्य नाम विधिश्चक्रे स्वयं लोहितगङ्गकम् । लोहित्यात् सरसो जातो लौहित्याख्यस्ततो ऽभवत् ॥ स कामरूपमखिलं पीठमाप्लाव्य वारिणा । गोपयन् सर्व्वतीर्थानि दक्षिणं याति सागरम् ॥ प्रागेव दिव्ययमुनां संत्यक्त्वा ब्रह्मणः सुतः । पुनः पतति लौहित्ये गत्वा द्वादशयोजनम् ॥ चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः । स्नाति लौहित्यतोयेषु स याति ब्रह्मणः पदम् ॥ चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः । लौहित्यतोये यः स्नाति स कैवल्यमवाप्नुयात् ॥” इति कालिकापुराणे ८५ अध्यायः ॥



Correction: