वाचस्पत्यम्
ल्वी || गतौ क्या० पा० पर० सक० अनिट् । ल्विनाति अल्वैषीत् । इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलिते वाचस्पत्ये लकारादिशब्दार्थ- सङ्कलनम् ।
शब्दकल्पद्रुमः
ल्वी || गि ग गत्याम् । इति कविकल्पद्रुमः ॥ (क्र्या०- पर०-सक०-अनिट् ।)
वकारोपधः । ग, ल्वीनाति ल्वीतः ल्वीतिः । गि, ल्विनाति ल्वीनाति ल्वीनः ल्वीनिः । गिनैव क्र्यादित्व- सिद्धौ गकरणं प्वादित्वविकल्पार्थम् । इति दुर्गा- दासः ॥