वाचस्पत्यम्
वक || कौटिल्ये अक० गतौ सक० भ्वा० आ० सेट् इदित् । वङ्कते अवङ्किष्ट ।
वाचस्पत्यम्
वक || पुंस्त्री० वकि—अच् पृषो० नलोपः । स्वनामख्याते विहगे अमरः स्त्रियां ङीष् । २ स्वनामख्याते पुष्पवृक्षे “अगस्तिकुसुमं शीतं चातुर्थकनिवारकम् । नक्तान्ध्यनाशनं तिक्तं कषायं कटुपाकि च । पीनसश्लेष्मपित्तघ्नं वातघ्नं मुनिमिर्मतम्” भावप्र० । ३ औषधादिपाचनयन्त्रभेदे “जल- कच्छपपातालदोलाभूधरवालुकाः । वकाद्या यन्त्रभेदाः स्युर्वज्रन्ध्वाद्याश्च मूषिकाः” शब्दच० । अस्य लक्षणं यथा “दीर्घकण्ठकाचकुप्या गिलयेत् खल्पभाण्डकम् । तिर्य्यक् कृत्वा पचेत् चुल्ल्यां वकयन्त्रमिति स्मृतम् ।” वैद्यकम् । ३ कुवेरे ४ राक्षसभेदे मेदि० यो भीमेन हतः भा० व० १४ अ० । श्रीकृष्णैन हते दैत्यभेदे च भाग० १० । ११ अ० ।
शब्दकल्पद्रुमः
वक is an alternate of बक. ब(व)क || इ ङ कौटिल्ये । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक० च-सेट् ।)
कौटिल्य- मिह कुटिलीभावः कुटिलीकरणञ्च । इ, वङ्क्यते । ङ, वङ्कते काष्ठं कुटिलं स्यादित्यर्थः । वङ्कते काष्ठं कुटिलं करोतीत्यर्थः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वक || इ ङ कौटिल्ये । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सक० च-सेट् ।)
कौटिल्य- मिह कुटिलीभावः कुटिलीकरणञ्च । इ, वङ्क्यते । ङ, वङ्कते काष्ठं कुटिलं स्यादित्यर्थः । वङ्कते काष्ठं कुटिलं करोतीत्यर्थः । इति दुर्गादासः ॥