संस्कृत-शब्दकोशः

वकपुष्प वकवैरिन्

वकवृत्ति

वाचस्पत्यम्

वकवृत्ति ||‍ पु० वकस्येव स्वार्थपरा वृत्तिश्चेष्टा यस्य । “अर्वाग्- वृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च वकवृत्तिरुदाहृतः” इत्युक्तलक्षणे परवञ्चके जने ।


शब्दकल्पद्रुमः

वकवृत्तिः is an alternate of बकवृत्तिः. ब(व)कवृत्तिः || पुं, (बकस्येव स्वार्थसाधिका वृत्ति- र्यस्य ।)
बकतुल्यवर्त्तनविशिष्टः । यथा, —
“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान् शठान् । हैतुकान् बकवृर्त्तीश्च वाङ्मात्रेणापि नार्च्चयेत् ॥” इति विष्णुपुराणे ३ अंशे १८ अध्यायः ॥ तस्य लक्षणं यथा, —
“अर्व्वाग्दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च वकवृत्तिरुदाहृतः ॥” इति तट्टीकायां श्रीधरस्वामी ॥ अपि च । “अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठः शिल्पी विनीतश्च बकवृत्तिरुदाहृतः ॥” इति पाद्मोत्तरखण्डे ११५ अध्यायः ॥



Correction: