संस्कृत-शब्दकोशः

वक्त्रभेदिन् वक्त्रशोधन

वक्त्रवास

वाचस्पत्यम्

वक्त्रवास ||‍ पु० वक्त्रं वासयति सुरभीकरोति वासि—अण् उप० स० । १ नागरङ्गे हेमच० । ६ त० २ मुखगन्धे पु० ।


शब्दकल्पद्रुमः

वक्त्रवासः || पुं, (वक्त्रं वासयति सुरभीकरोतीति । वासि + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
नारङ्गः । इति राजनिर्घण्टः ॥ (विवरणमस्य नारङ्गशब्दे ज्ञातव्यम् ॥ वक्त्रस्य वासः ।)
मुख- गन्धश्च ॥



Correction: