वाचस्पत्यम्
वचस्कर || त्रि० वचः करोति कृ—अच् कस्कादि० । वाक्यप्रति- पालके वश्ये ।
शब्दकल्पद्रुमः
वचस्करः || त्रि (करोतीति । कृ + अच् । वचसः करः ।) वचने स्थितः । इति केचित् ॥