संस्कृत-शब्दकोशः

वचोग्रह वज्र

वज

वाचस्पत्यम्

वज ||‍ गतौ भ्वा० पर० सक० सेट् । वजति । अवाजीत्—अव- जीत ववजतुः ।


वाचस्पत्यम्

वज ||‍ शरसंस्कारे गतौ च चुरा० उभ० सक० सेट् । वाजयति ते अवीवजत् त ।


शब्दकल्पद्रुमः

वज || क संस्कृतौ । गतौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।)
अयं मार्गणसंस्कारे इति प्राञ्चः । मार्गणस्य शरस्य पक्षादिना संस्कारो मार्गणसंस्कारः । क, वाजयति पक्षै- र्बाणं काण्डकारः । इति रमानाथः ॥ मार्गण- संस्कारयोरिति कश्चित् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वज || गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
वजति । इति दुर्गादासः ॥



Correction: