संस्कृत-शब्दकोशः

वज्रटीक वज्रदन्त

वज्रतुण्ड

वाचस्पत्यम्

वज्रतुण्ड ||‍ पु० वज्राकारं तुण्डमस्य । १ गणेशे २ गरुडे त्रिका० ३ मशके ४ गृध्रे च राजनि० ।


शब्दकल्पद्रुमः

वज्रतुण्डः || पुं, (वज्रं वज्रतुल्यं कठिनन्तुण्डं यस्य ।)
गरुडः । गणेशः । इति त्रिकाण्डशेषः ॥ गृध्रः । मशकः । इति राजनिर्घण्टः ॥ (वज्रतुण्डधरे, त्रि । यथा, भागवते । ५ । २६ । ३५ । “यस्त्विह वा अतिथीनभ्यागतान् वा गृहपति- रसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा गृध्रकङ्क काकवटादयः प्रसहोरुबला- दुत्पाटयन्ति ॥”)



Correction: