वाचस्पत्यम्
वड || आरोहणे सौ० पल० सक० सेट् । वडति अवाडीत् अवडीत् । ववडतुः ।
वाचस्पत्यम्
वड || विनजने चुरा० उभ० सक० सेट् इदित् । वण्डयति ते अववण्डत् त ।
वाचस्पत्यम्
वड || वेष्टने विभागे च भ्वा० आ० सक० सेट् इदित् । वण्डते अवण्डिष्ट ।
शब्दकल्पद्रुमः
वड || आरोहणे । सौत्रधातुरयम् । इति कवि- कल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।)
वडभी । बडिशम् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वड || इ क विभागे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् । इदित् ।)
इ क, वण्डयति । अयं कैश्चिन्न पठ्यते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वड || इ ङ वेष्टे । विभागे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् । इदित् ।)
इ, वण्ड्यते । ङ, वण्डते । इति दुर्गादासः ॥