शब्दकल्पद्रुमः
वणिक् is an alternate of बणिक्. ब(व)णिक् || [ज्] पुं, (पणते क्रयविक्रयादिना व्यव- हरतीति । पण + “पणेरादेश्च बः ।” उणा० २ । ७० । इति इजिः पस्य च बः ।)
क्रय- विक्रयकर्त्ता । बाणिज्यकारकः । तत्पर्य्यायः । वैदेहकः २ सार्थवाहः ३ नैगमः ४ बणिजः ५ पण्याजीवः ६ आपणिकः ७ क्रयविक्रयिकः ८ । इत्यमरः । २ । ९ । ७८ ॥ वैदेहः ९ विदेहः १० बाणिजः ११ बाणिजिकः १२ क्रायिकः १३ विक्रयिकः १४ । इति भरतादयः ॥ बाणि- जकः १५ बाणिज्यकारः १६ । इति शब्द- रत्नावली ॥ (यथा, माघे । १२ । २६ । “स्थाणौ निषङ्गिण्यनसि क्षणम्पुरः शुशोच लाभाय कृतक्रयो बणिक् ॥”)
करणान्तरम् । इति मेदिनी । जे, २६ ॥ वैश्यः । इति राजनिर्घण्टः ॥ (बाणिज्ये अधिकारा- देवास्य तथात्वम् ॥ करणविशेषः । यथा, बृहत्- संहितायाम् । ९९ । ७ । “कृषिबीजगृहाश्रयजानि गरे बणिजिध्रुवकार्य्यबणिग्युतयः ॥”)
शब्दकल्पद्रुमः
वणिक् is an alternate of बणिक्. ब(व)णिक् || [ज्] स्त्री, (पण्यते व्यवह्रीयते इति । पण + इजि । पस्य बः । अभिधानात् स्त्रीत्वम् ।)
बाणिज्यम् । इति मेदिनी । गे, २६ ॥