वाचस्पत्यम्
वत्सपाल || पु० वत्सान् पालयति पाल—अण् । १ श्रीकृष्णे २ बलदेवे च ।
शब्दकल्पद्रुमः
वत्सपालः || पुं, (वत्सान् पालयतीति । वत्स + पालि + अण्)
श्रीकृष्णः । बलदेवः । यथा, —
“वृन्दावनं गोवर्द्धनं यमुनापुलिनानि च । वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥ एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः । कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ॥” इति श्रीभागवते । १० । ११ । ३६ ॥ (वत्सपालके, त्रि । यथा, हरिवंशे । ६७ । २४ । “स तत्र वयसा तुल्यैर्व्वत्सपालैः सहानघः । रेमे वै दिवसं कृष्णः पुरा स्वर्गगतो यथा ॥”)