वाचस्पत्यम्
वद || त्रि० वदति वद—अच् । वक्तरि अमरः ।
वाचस्पत्यम्
वद || नुतौ अभिवादने सक० भ्वा० आ० सेट् इदित् । वन्दते अवन्दिष्ट ।
वाचस्पत्यम्
वद || वाक्ये सन्देशे च भ्वा० उभ० सक० सेट् । वदति ते अवादीत् अवदिष्ट । ज्ञानयत्रादावात्मनेपदीत्यन्ये ।
वाचस्पत्यम्
वद || वाचि भ्वा० पर० सक० सेट् यजा० । वदति अवादीत् उवाद ऊदतुः उदितः । भासने उपसान्त्वते आत्म० शास्त्रे वादते भासमानो वदतीत्यर्थः भृत्यानुपवदते सान्तयतीत्यर्थः । ज्ञानाद्युपाधौ च आत्म० । तत्र ज्ञाने शास्त्रे वदते । यत्रे क्षेत्रे वदते । विमतौ क्षेत्रे विवदन्ते । उपच्छन्दने उपवदते प्रार्थयते इत्यर्थः सि० कौ० । व्यक्तवाचां सम्भूयोच्चारणे आत्म० प्रवदन्ते विप्राः । अति + मर्य्यादातिक्रमेणोक्तौ प० अतिवदति । अनु + उक्तस्य पर्य्यायान्तरेण कथने अनुवादः अकर्मकात् व्यक्तवाचामनुवादे तु आत्म० अनुवदते कठः- प्रलापस्य” सि० कौ० अव्यक्तवाचि तु प० अनुवदति वीणा सकर्मकात्तु पर० उक्तमनुवदति । विरुद्धोक्तौ व्यक्तायां वाचि वा आत्म० विप्रवदन्ते न्ति वैद्याः । अप + निन्दायाम् । अपवादः । विशेषविधाने च अपवादः विशेषविधिः परि + निन्दात्रां मिथ्यादूषणे च पर० । परिवदति वरिवादः । प्रति + विरुद्धतयोक्तौ पर० प्रतिवदति प्रतिवादः प्रतिवादी प्रत्युत्तरोक्तौ च । वि + विरुद्धोक्तौ पक्षप्रतिपक्षग्रहणेनोक्तौ आत्म० वि- वदन्ते पण्डिताः वादिप्रतिवादिनश्च ।
वाचस्पत्यम्
वद || वाचि सन्देशे च सक० चुरा० उभ० सेट् । वादयति ते अवीवदत् । अभि + प्रणामे ।
शब्दकल्पद्रुमः
व(ब)द || इ ङ नुत्यभिवादयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
अभिवादो नम- स्कारः । इ, वन्द्यते । ङ, वन्दते गुरुं लोकः । नमस्करोति स्तौति वा इत्यर्थः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
व(ब)द || ऐ वाचि । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
ऐ, उद्यात् । इति दुर्गा- दासः ॥ (“क्विपि संवत् दन्त्योष्ठत्वात् पक्षे सानु- नासिको वकारः सँव्वत् यस्तु मन्यते नायं संप्रसारिणो वदेः प्रयोगः किन्तर्हि बद स्थैर्य्य इत्यस्य ओष्ठ्यबकारादेः तन्मते मकारवदपि सम्बदिति वर्णदेशना ।” इति मनोरमा ॥)
शब्दकल्पद्रुमः
वद || क वाक्सन्देशयोः । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-आत्म०-इत्येके-सेट् ।)
क, वादयति । सन्देशो वचनविशेषः । अयमात्मने- पदीत्येके । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वद || ञ ङ वाक्सन्देशयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-आत्म०-इत्येके-सक०-सेट् ।)
ञ, वदति वदते । ङ, वदते । अयमात्मनेपदीत्यन्ये । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वदः || त्रि (वदति वक्तीति । वद् + पचाद्यच् ।)
वक्ता । इत्यमरः । ३ । १ । ३५ ॥