वाचस्पत्यम्
वदर is an alternate of बदर. ब(व)दर || पु० बदति स्थिरीभवति छिन्नस्यापि पुनः प्ररोहेण बद + स्थैर्य्ये अरच् । १ कोलिवृक्षे २ देवसर्षपवृक्षे राजनि० । तस्य फलम् अण् तस्य लुक् । ३ कोलिफले राजनि० । कर्क- न्धूशब्दे दृश्यम् । ४ कार्पासफले ५ कोलिफले न० ६ कीलिभेदे (सेओयाकुल) कार्षासास्थ्नि पु० मेदि० । अन्त्यस्थादित्वम- स्यान्थैरुक्तम् । ८ बराहक्रान्तायां १ कार्षाषवृक्षे स्त्री अमरः ।
शब्दकल्पद्रुमः
वदरं is an alternate of बदरं. ब(व)दरं || क्ली (बदति स्थिरीभवति छिन्नेऽपि पुनः प्ररोहतीति । बद + अर ।)
सेविफलम् । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्य यथा, —
“मुष्टिप्रमाणं बदरं सेवं सिवितिकाफलम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कार्पासफलम् । कोलिफलम् । इति हेमचन्द्रः ॥ शृगालकोलिः । शेयाकुल इति भाषा । बदति स्थिरीभवति छिन्नस्यापि पुनःप्ररोहणात् । बदरं वृक्षफलेऽपि क्लीवम् । इति भरतः ॥ तत्- पर्य्यायः । घोण्टा २ । इत्यमरः ॥ गोपघोण्टा ३ । इति सुभूतिः ॥ हस्तिकोलिः ४ गोपघण्टी ५ बदरीच्छदा ६ शृगालकोलिः ७ कर्कन्धुः ८ । इति रत्नकोषः ॥ बादिरम् ९ । इति शब्दरत्नावली ॥ अस्य विवरणं कोलशब्दे द्रष्ट- व्यम् ॥ * ॥
बृहत्कोलिः । तत्पर्य्यायः । सौवीरम् २ । इति रत्नमाला ॥ * ॥
कोलिमात्रम् । तत्प- र्य्यायः । कर्कन्धुः २ वदरी ३ कोलम् ४ फेनिलम् ५ कुवलम् ६ घोण्टा ७ सौवीरम् ८ अजाप्रिया ९ कुहा १० कोलिः ११ विषमः १२ भयकण्टकः १३ । इति भावप्रकाशः ॥ सौवीरकः १४ गुड- फलः १५ बालेष्टः १६ फलशैशिरः १७ दृढ- बीजः १८ वृत्तफलः १९ कण्टकी २० वक्र- कष्टकः २१ सुरसः २२ सुफलः २३ स्वच्छः २४ कर्कन्धूः २५ बदरः २६ कोला २७ कोली २८ कुवली २९ स्वादुफला ३० गृध्रनखी ३१ पिच्छिला ३२ कुवलः ३३ । इति च शब्दरत्ना- वली ॥ (यथा, भागवते । ४ । ८ । ७२ । “त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशबः । आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम् ॥”)
अस्य गुणाः । मधुरत्वम् । कषायत्वम् । अम्ल- त्वञ्च ॥ परिपक्वस्य तस्य गुणाः । मधुराम्लत्वम् । उष्णत्वम् । कफकारित्वम् । पवनातिसाररक्त- श्रमदोषार्त्तिविनाशित्वम् । रुच्यत्वञ्च । इति राज- निर्घण्टः ॥ राजबदरभूबदरलघुबदराणां पर्य्याय- गुणास्तत्तच्छब्दे द्रष्टव्याः ॥ * ॥
अथ बदरविशे- षाणां लक्षणानि गुणाश्च । “पच्यमानं सुमधुरं सौवीरं बदरं महत् । सौवीरं बदरं शीतं भेदनं गुरु शुक्रलम् ॥ बृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् । * । सौवीराल्लघु संपक्वं मधुरं कोलमुच्यते ॥ कोलन्तु बदरं दाहि रुच्यमुष्णञ्च वातहृत् । कफपित्तकरञ्चापि गुरु सारकमीरितम् ॥ * ॥
कर्कन्धुः क्षुद्रबदरं कथितं पूर्ब्बसूरिभिः । अम्लं स्यात् क्षुद्रबदरं कषायं मधुरं मनाक् ॥ स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् । शुष्कं भेद्यग्निकृत् सर्व्वं लघु तृष्णाक्लमास्रजित् ॥” इति भावप्रकाशः ॥
शब्दकल्पद्रुमः
वदरः is an alternate of बदरः. ब(व)दरः || पुं, (बदति स्थिरीभवति छिन्नेऽपि पुनः प्ररोहतीति । बद् + अर ।)
कोलिवृक्षः । तत्पत्रादिगुणाः । “बदरस्य पत्रलेपो ज्वरदाहविनाशनः । त्वचा विस्फोटशमनी बीजं नेत्रामयापहम् ॥” इति राजनिर्घण्टः ॥ अस्य पर्य्यायः फलगुणाश्च क्लीवलिङ्गबदरशब्दे द्रष्टव्याः ॥ * ॥
देवसर्षपवृक्षः । इति राज- निर्घण्टः ॥ कार्पासास्थि । इति मेदिनी ॥ कापा सेर विचि इति भाषा ॥ तत्र अन्तःस्थवका- रादिशब्दमध्ये गृहीतोऽयम् ॥