संस्कृत-शब्दकोशः

वदाम वदालक

वदाल

वाचस्पत्यम्

वदाल ||‍ पुंस्त्री० वद—आल । पाठोनमत्स्ये (वोयाल) त्रिका० स्त्रियां ङीष् । स्वार्थे क तत्रार्थे ।


शब्दकल्पद्रुमः

वदालः || पुं, (वद + घञर्थे कः । वदेन वदनेन अलति पर्य्याप्नोतीति । वद + अल् + अच् ।)
मत्स्यविशेषः । वोयालि इति भाषा । तत्पर्य्यायः । पाठीनः २ । इति त्रिकाण्डशेषः ॥ हव्यकव्ययो- स्तस्योपयोगित्वं यथा, मनुः । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ॥”



Correction: