वाचस्पत्यम्
वनायुज || पु० वनायुदेशे जायते जन—ड । प्रशस्तघोटके (आरवि) शब्दर० ।
शब्दकल्पद्रुमः
वनायुजः || पुं, (वनायौ देशे जायते इति । जन + डः ।) वनायुदेशोद्भवघोटकः । अस्य रूया- न्तरं वानायुजः । इति शब्दरत्नावली ॥