वाचस्पत्यम्
वनौकस् || पु० वनमेव ओकः स्थानं यस्य । १ वानरे अमरः । २ वनवासिनि त्रि० ।
शब्दकल्पद्रुमः
वनौकाः || [स्] पुं, (वनमेव ओको गृहं यस्य ।)
वानरः । इत्यमरः । २ । ५ । ३ ॥ (वनवासिनि, त्रि । यथा, भागवते । ४ । ९ । २१ । “धर्म्मोऽग्निः कश्यपः शक्रो मुनयो ये वनौ- कसः । चरन्ति दक्षिणीकृत्य भ्रमन्तो यत् सतारकाः ॥”)