वाचस्पत्यम्
वन्दा || स्त्री वदि—कर्मणि घञ् । (परगाछा) लताभेदे अमरः २ भिक्षुक्यां ३ लताभेदे च मेदि० ।
शब्दकल्पद्रुमः
वन्दा || स्त्री (वन्दते अपरवृक्षमिति । वदि + अच् । टाप् ।)
वृक्षोपरिवृक्षः । वाँदु इति परगाछा । इति च भाषा । तत्पर्य्यायः । वृक्षा- दनी २ वृक्षरुहा ३ जीवन्तिका ४ । इत्यमरः ॥ वन्दाका ५ शेखरी ६ सेव्या ७ वन्दका ८ । इति भरतधृतहड्डः ॥ वन्दकः ९ नीलवल्ली १० इति रत्नमाला ॥ वन्दाकी ११ परवासिका १२ इति शब्दरत्नावली ॥ वशिनी १३ पुत्त्रिणी १४ वन्द्या १५ परपुष्टा १६ पराश्रया १७ । इति शब्दचन्द्रिका ॥ लताविशेषः । भिक्षुकी । इति मेदिनी । दे, १० ॥ अस्याः पर्य्यायान्तरं गुणाश्च वन्दाकशब्दे द्रष्टव्याः ॥