वाचस्पत्यम्
वन्दारु || त्रि० वदि—आरु । वन्दनशीले शब्दर० ।
शब्दकल्पद्रुमः
वन्दारुः || त्रि (वन्दते स्तौति अभिवादयतीति । वन्द + “शृवन्द्योरारुः ।” ३ । २ । १७३ । इति आरुः ।)
वन्दनशीलः । तत्पर्य्यायः । अभि- वादकः २ । इत्यमरः । ३ । १ । २८ ॥ अभि- वादयिता ३ । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । १ । १४७ । २ । “पीयति त्वो अनुत्वो गृणति वन्दारुस्त तन्वं वन्दे अग्ने ॥” स्तोत्रे, क्ली । इति ऋग्वेदभाष्ये सायणः । ४ । ४३ । १ ॥)