संस्कृत-शब्दकोशः

वन्दिचौर वन्दिपाठ

वन्दिन्

वाचस्पत्यम्

वन्दिन् ||‍ पु० वन्दते स्तौति वदि—णिनि । राजादेः १ स्तुति- पाठके अमरः ।


शब्दकल्पद्रुमः

व(ब)न्दी || [न्], पुं, (वन्दते स्तौति नृपादीन्निति । वदि स्तुतौ + णिनिः ।)
राजादेर्यात्रादौ वीर्य्यादस्तुतिकारकः । तत्पर्य्यायः । स्तुति- पाठकः २ । इत्यमरः ॥ मागधः ३ मगधः ४ । इत्यन्ये । इति तट्टीकायां भरतः ॥ (यथा, रघुः । ४ । ६ । “परिकल्पितसान्निध्या काले काले च वन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥”)
अस्योत्पत्तिर्यथा, —
“क्षत्त्रियाद्विप्रकन्यायां सूतो भवति जातितः । वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥” इति मानवे १० अध्यायः ॥ * ॥
श्राद्धोत्तरमस्मै शक्तितो दानस्याकरणे निन्दा यथा, —
“वन्दिभ्यश्चैवमर्थिभ्योऽन्नार्थिभ्यश्चन्नमर्थितः । यदि तत्र न दद्यात्तु विफलं शाक्ततो भवेत् ॥” वन्दिनो वीर्य्यस्तोतारः । अर्थितः सन् यदि एभ्योऽन्नं न दद्यात् श्राद्धं विफलं भवेदित्यर्थः । “सूताः पौराणिकाः प्रोक्ता मागधा वंश- शंसकाः । वन्दिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः ॥” इत्युक्तेः । इत्थञ्च श्राद्धोत्तरदाननिषेधात् श्राद्धे वन्दिप्रभृतिभ्यो दानाकरणे निन्दाश्रवणाच्च श्राद्धात् पूर्ब्बं तदर्थं भोज्यादिकं उत्सृजेत् । इति श्राद्धतत्त्वम् ॥ (भृत्यः । यथा, भागवते । ११ । ४ । १५ । “ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः । उर्व्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥” “सुरवन्दिनो देवभृत्याः ।” इति तट्टीकायां श्रीधरस्वामी ॥)



Correction: