वाचस्पत्यम्
वन्द्र || न० वन्द—रन् । कल्याणे सि० कौ० । २ पूजके त्रि० उणादि०
शब्दकल्पद्रुमः
वन्द्रं || क्ली (वन्द्यते स्तूयते इति । वदि स्तुतौ + “स्फायितञ्चीति ।” उणा० २ । १३ । इति रक् ।)
कल्याणम् । इति सिद्धान्तकौमुद्या- मुणादिवृत्तिः ॥
शब्दकल्पद्रुमः
वन्द्रः || त्रि (वन्दते स्तौति देवादीन् पूजाकाले इति । वदि + रक् ।)
पूजकः । इत्युणादि- कोषः ॥