वाचस्पत्यम्
वय(यः)स्थ || पुंस्त्री० वयसि यौवने तिष्ठति स्था—क खर्परे शरि वा विसर्गलोपः । १ तरुणे २ विभीतक्यां स्त्री अमरः । “वयस्था नागरासङ्गात्” वैद्यकम् । ३ आमलक्यां ४ हरी- तक्यां ५ सोमवल्लर्य्यां स्त्री अमरः । ६ गुडूच्यां ७ सूक्ष्मैलायां ८ काकोल्याम् ९ आलौ स्त्री मेदि० । १० शाल्मलौ स्त्री हेमच० । ११ क्षीरकाकोल्याम् भावप्र० १२ अत्यल्पपर्ण्यां मत्स्याक्ष्यां १४ युवतौ च स्त्री राजनि० ।
शब्दकल्पद्रुमः
वयस्थः || त्रि युवा । इत्यमरः । २ । ६ । ४२ ॥ वयसि यौवने तिष्ठति इति वयस्थः डः निपा- ताद्विसर्गस्य वा लुक् वयःस्थश्च ॥ वयःपक्षिणि बाल्यादौ वयो यौवनमात्रके । इति विश्वः । इति भरतः ॥
वाचस्पत्यम्
वयःस्थ is an alternate of वयस्थ. वय(यः)स्थ || पुंस्त्री० वयसि यौवने तिष्ठति स्था—क खर्परे शरि वा विसर्गलोपः । १ तरुणे २ विभीतक्यां स्त्री अमरः । “वयस्था नागरासङ्गात्” वैद्यकम् । ३ आमलक्यां ४ हरी- तक्यां ५ सोमवल्लर्य्यां स्त्री अमरः । ६ गुडूच्यां ७ सूक्ष्मैलायां ८ काकोल्याम् ९ आलौ स्त्री मेदि० । १० शाल्मलौ स्त्री हेमच० । ११ क्षीरकाकोल्याम् भावप्र० १२ अत्यल्पपर्ण्यां मत्स्याक्ष्यां १४ युवतौ च स्त्री राजनि० ।
शब्दकल्पद्रुमः
वयःस्थः || त्रि (वयसि यौवने तिष्ठतीति । वयस् + स्था + कः ।)
युवा । इति हेमचन्द्रः । ३ । ३ ॥ (यथा, महाभारते । १ । ४२ । ४ । “पित्रा पुत्त्रो वयःस्थोऽपि सततं वाच्य एव तु ॥”)