संस्कृत-शब्दकोशः

वराक वराङ्गक

वराङ्ग

वाचस्पत्यम्

वराङ्ग ||‍ न० कर्म० । १ मस्तके । व्रियते आव्रियते गुप्यते वृ- अप् । २ गुह्ये अमरः । ३ योनौ ४ गुडत्वचि च त्रिका० । ६ ब० । ५ गजे पुंस्त्री० त्रिका० स्त्रियां ङीष् ६ विष्णौ विष्णुस० । ७ कामदेवे च पु० । ८ श्रेष्ठावयवयुक्ते त्रि० । ८ हरिद्रायाम् स्त्री राजनि० । गौरा० ङीष् । संज्ञायां कन् । गुडत्वचि (दाराचनि) न० अमरः ।


शब्दकल्पद्रुमः

वराङ्गं || क्ली (वरमङ्गानाम् ।)
मस्तकम् । गुह्यम् । इत्यमरः । ३ । ३ । २६ ॥ गुडत्वक् । योनिः । इवि त्रिकाण्डशेषः ॥ श्रेष्ठावयवे, च ॥ (वरा- ण्यङ्गान्यस्य ।)
तद्युक्ते, त्रि ॥ (चोचम् । यथा, “त्वक्पत्रञ्च वराङ्गं स्याद्भृङ्गञ्चोचं तथोत्- कटम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)


शब्दकल्पद्रुमः

वराङ्गः || पुं, (वराणि स्थूलान्यङ्गानि यस्य ।)
हस्ती । इति त्रिकाण्डशेषः ॥ विष्णुः । यथा, —
“सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ॥” इति तस्य सहस्रनामस्तोत्रम् ॥



Correction: