वरारक
वरारोहा
वरारोह
वाचस्पत्यम्
वरारोह || पु० वर आरोहो मध्यं यस्य । १ हस्तिनि विश्वः २ प्रशस्तनितम्बवत्यां स्त्रियां स्त्री अमरः ।
शब्दकल्पद्रुमः
वरारोहः || पुं, (हस्तिन उच्चत्वात् आयतपृष्ठ- त्वाच्च वर आरोहो यत्र ।)
हस्त्यारोहः । अव- रोहः । इति विश्वः ॥