वाचस्पत्यम्
वराहक्रान्ता || स्त्री वराहेण क्रान्तेव । १ लज्जालुलतायाम् शब्दच० २ वाराह्यां (चामरालु) सुभूतिः ।
शब्दकल्पद्रुमः
वराहक्रान्ता || स्त्री (वराहेन क्रान्ता अतिप्रिय- त्वात् ।)
क्षुपविशेषः । इति शब्दमाला ॥ तत्पपर्य्यायः, । लज्जालुः २ समङ्गा ३ लज- कारिका ४ वराहनामा ५ वदरा ६ शूकरी ७ तिक्तगन्धिका ८ नमस्कारी ९ गण्डकाली १० खदिरी ११ । इति रत्नमाला ॥ लज्जालुका १२ अञ्जलिकारिका १३ कृताञ्जलिः १४ गण्डकारी १५ समीच्छदा १६ । इति ग्रन्थान्तरम् ॥ वाराही । चामारालु इति ख्याते । इति सुभूतिः । इत्यमरटीकायां भरतः ॥