संस्कृत-शब्दकोशः

वरुट वरुण

वरुड

वाचस्पत्यम्

वरुड ||‍ पु० वृ—उडन् । अन्त्यजजातिभेदे स्त्रियां ङीष् । “रजकश्चर्मकारश्च नटोवरुड एव च” मनुः ।


शब्दकल्पद्रुमः

वरुडः || पुं, अन्त्यजजातिविशेषः । यथा, —
“रजकश्चर्म्मकारञ्च नटो वरुड एव च । कैवर्त्तमेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥” एषां स्त्रीगमनादौ दोषो यथा, —
“एतेषान्तु स्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति ॥” इति प्रायश्चित्ततत्त्वधृतयमवचनम् ॥ अस्योत्पत्तिर्यथा, —
“कैवर्त्तस्य च कन्यायां शौण्डिकादेव सौचिकः । सौचिकात् शौण्डिकाज्जातो नटो वरुड एव च ॥” इति पराशरपद्धतिः ॥



Correction: