वाचस्पत्यम्
वर्ण्णज्येष्ठ || पु० वर्णेषु ज्येष्ठः प्रथममुत्पन्नत्वात् । १ अग्रजे विप्रे । स्वस्वापेक्षया २ श्रेष्ठवर्णकूटयुते त्रि० । “वर्ण- ज्येष्ठा च या नारी” स्मृतिः ।
शब्दकल्पद्रुमः
वर्णज्येष्ठः || त्रि (वर्णेन ज्योतिषोक्तपारिभाषिक- वर्णेन ज्येष्ठः श्रेष्ठः ।)
स्ववर्णापेक्षोत्तमवर्णः । पारिभाषिकहीनवर्णकर्त्तृकपारिभाषिकवर्ण- ज्येष्ठकन्याविवाहनिषेधो यथा, —
“मीनकर्कटवृश्चिकविप्राः सिंहतुलाधनुः क्षत्त्रिय उक्तः । कुम्भनरद्वयमेषविशः स्यु- र्म्मकरवृषस्त्री कथितावरजातिः ॥ वर्णज्येष्ठा च या नारी वर्णहीनश्च यः पुमान् । तयोर्व्विवाहे मृत्युः स्यात् षण्मासान्नात्र संशयः ॥” इति ज्योतिस्तत्त्वे वर्णजोटनम् ॥
शब्दकल्पद्रुमः
वर्णज्येष्ठः || पुं, (वर्णेषु चतुर्षु मध्ये ज्येष्ठः प्रथमोत्- पन्नात् गुणोत्कृष्टत्वाच्च ।)
ब्राह्मणः । इति त्रिकाण्डशेषः ॥