वाचस्पत्यम्
वर्णरेखा || स्त्री वर्णान् लिखत्यनया लिख करणे घञ् रस्य वः । कठित्यां (खडि) त्रिका० ।
शब्दकल्पद्रुमः
वर्णरेखा || स्त्री (वर्णा लिख्यन्तेऽनयेति । लिख + करणे घञ् । रलयोरैक्यम् ।) कठिनी । इति त्रिकाण्डशेः ॥