वाचस्पत्यम्
वर्णाङ्का || स्त्री वर्णा अक्षराणि अङ्क्यन्तेऽनया अङ्कि—अच् । लेखन्याम् शब्दच० ।
शब्दकल्पद्रुमः
वर्णाङ्का || स्त्री (वर्णा अङ्क्यन्तेऽनयेति । अङ्क + करणे घञ् । ततष्टाप् ।) लेखनी । इति शब्दरत्नावली ॥