वाचस्पत्यम्
वर्णु || पु० वर्ण—उन् । १ नदभेदे उणादि० २ आदित्ये संक्षिप्त० ।
शब्दकल्पद्रुमः
वर्णुः || पुं, (वृङ संभक्तौ + “अजिवृरीभ्यो निच्च ।” उणा० ३ । ३८ । इति णुः । स च नित् ।)
नदविशेषः । इत्युणादिकोषः ॥ आदित्यः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (देशविशेषः । इत्युज्ज्वलदत्तः ॥)