वाचस्पत्यम्
वर्षपर्वत || पु० वर्षाणां चिह्नभूतः सीमाभूतो वा पर्वतः । “हिमवान् हेमकूटश्च निषधो मेरुरेव च । चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः” इत्युक्तेषु पर्वतेषु हारा० । द्वीपभेदेऽन्येऽपि वर्षपर्वता कुलपर्वतशब्दे २१३२ पृ० दर्शिताः । सि० शि० उक्ता जम्बूद्वीपपर्वता वर्षशब्दे द्रर्शिताः । तत्र नाममात्रे भेदः कल्पभेदात् ।
शब्दकल्पद्रुमः
वर्षपर्व्वतः || पुं, (वर्षाणां भारतादीनां विभाजकः पर्व्वत इति मध्यलोपी समासः ।)
वर्षविभा- जकगिरिः । यथा, —
“हिमवान् हेमकूटश्च निषधो मेरुरेव च । चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्व्वताः ॥” इति हारावली ॥