वाचस्पत्यम्
वर्ह || उत्कर्षे भ्वा० आ० सक० सेट् । वर्हते अवर्हिष्ट ।
वाचस्पत्यम्
वर्ह || न० वर्ह—अच् । मयूरपिच्छे अमरः अस्य पुंस्त्वमपि “कं हरेदेष वर्हः” विक्रमो० प्रयोगात् । २ ग्रन्थिपर्णे वृक्षे भरतः । ३ पत्रे शब्दर० ।
वाचस्पत्यम्
वर्ह || बधे सक० दीप्तौ अक० चु० उभ० सेट् । वर्हयति—ते अववर्हत् त ।
शब्दकल्पद्रुमः
व(व)र्हं || क्ली (वर्हयति दीप्यते इति । वर्ह + अच् ।)
मयूरपिच्छम् । इत्यमरः । २ । ५ । ३१ ॥ (यथा, महाभारते । १२ । १२० । ४ । “यथा वर्हाणि चित्राणि बिभर्त्ति भुजगाशनः । तथा बहुविधं राजारूपं कुर्व्वीत धर्म्मवित् ॥”)
ग्रन्थिपर्णम् । इति भरतः ॥ (वर्हतीति । वृह वृद्धौ + अच् ।)
पत्रम् । इति शब्दरत्नावली ॥ (यथा, रघुः । ६ । १७ । “विलासिनी विभ्रमदन्तपत्त्र- मापाण्डुरं केतकवर्हमन्यः । प्रियानितम्बोत्तितसन्निवेशै- र्विपाटयामास युवा नखाग्रैः ॥”)
परीवारः । इति हेमचन्द्रः ॥
शब्दकल्पद्रुमः
वर्ह || क वधे । दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-वधे सक०-दीप्तौ अक०-सेट् ।)
रेफोपधः । क, वर्हयति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
वर्ह || ङ श्रैष्ठ्ये । इति कविकल्पद्रुमः ॥ (स्वा०- आत्म०-अक०-सेट् ।)
ङ, वर्हते धनी श्रेष्ठः स्यादित्यर्थः ॥