वाचस्पत्यम्
वर्हिण || पुंस्त्री० वर्हमस्यस्य इन । १ मयूरे अमरः स्त्रियां ङीष् इनि । वर्हीत्यप्यत्र ।
शब्दकल्पद्रुमः
व(ब)र्हिणः || पुं, (बर्हमस्त्यस्येति । वर्ह + “फल- बर्हाभ्यामिनच् ।” इति इनच् । यद्वा “बहुल- मन्यत्रापि ।” उणा० २ । ४९ । इत्यत्र वर्ह वल्ह प्राधान्ये । बर्हिणो मयूरः । इत्युज्ज्वलदत्तोक्त्या इनच् ।)
मयूरः । इत्यमरः । २ । ५ । ३० ॥ (यथा, मनौ । १२ । ६५ । “छुछुन्दरिः शुभान् गन्धान् पत्रशाकन्तु बर्हिणः । श्वावित् कृतान्नं विविधमकृतान्नन्तु शल्यकः ॥” क्ली । तगरम् । तत्पर्य्यायो यथा, —
“कालानुसार्य्यं तगरं कुटिलं मधुरं मतम् । अपरं पिण्डतगरं दण्डहस्ती च बर्हिणम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)