वाचस्पत्यम्
वर्हिःशुष्मन् || पु० वर्हि कुशः शुष्म बलमस्य । १ वह्नौ अमरः कुशेन हि वह्निरुद्दीप्यते ।
शब्दकल्पद्रुमः
वर्हिःशुष्मा || [न्], पुं, (वर्हिषा कुशेन वर्हिषि यज्ञे वा शुष्म तेजो यस्य ।) अग्निः । इत्यमरः । १ । १ । ५७ ॥