वाचस्पत्यम्
वर्हिष्केश || पु० बर्ह—दीप्तौ इसुन् वर्हिः दीप्तिमान् केशो यस्य वहनु ।
शब्दकल्पद्रुमः
वर्हिष्केशः || पुं, (वर्हिर्दीप्तिरेव केश इव यस्य ।) अग्निः । इति शोचिष्केशशब्ददर्शनात् ॥