वाचस्पत्यम्
वल्लभ || पु० वल्ल—अभच् । १ दयिते २ अध्यक्षे अमरः । ३ उत्त- माश्वे च मेदि० । ४ दयितायां स्त्री हमच० ।
शब्दकल्पद्रुमः
वल्लभः || त्रि (वल्ल + अभच् ।)
प्रियः । (यथा, कामन्दकीयनीतिसारे । ५ । १९ । “पुत्त्रेभ्यश्च नमस्कुर्य्यात् वल्लभेभ्यश्च भूपतेः ॥”)
अध्यक्षः । इत्यमरः ॥ अध्यक्षोऽत्र गवाध्यक्षः । इति स्वामी ॥
शब्दकल्पद्रुमः
वल्लभः || पुं, (वल्ल संवरणे + “रासिवल्लिभ्याञ्च ।” उणा० ३ । १२५ । इति अभच् ।)
दयितः । अध्यक्षः । सल्लक्षणतुरङ्गमः । इति मेदिनी । भे, १८ ॥ (जह्रुवंशीयवलाकाश्वस्य पुत्त्रः । स च कुशि- कस्य पिता । यथा, महाभारते । १३ । ४ । ५ । “वल्लभस्तस्य तनयः साक्षाद्धर्म्म इवापरः । कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥”)