वाचस्पत्यम्
वल्ली is an alternate of वल्लि. वल्लि(ल्ली) || स्त्री वल्ल—इन् वा ङीप् । १ लतायाम् अमरः । २ पृथिव्याञ्च शब्दच० दीर्घान्तस्तु ३ अजमोदायां मेदि० ४ कैवर्त्तिकायाम् ५ चव्ये च राजनि० ।
शब्दकल्पद्रुमः
वल्ली || स्त्री (वल्लि + ङीष् ।)
लता । इत्यमरः ॥ सा च भूमिप्रसारा वर्षमात्रस्थायिनी कुष्मा- ण्डाद्या । (यथा च । “विदारीसारिवारजनीगुडुच्योऽजशृङ्गीचेतिवल्ली- संज्ञः ॥” इति सुश्रुते सूत्रस्थाने ३८ अध्यायः ॥ यथा च, रामायणे । २ । ८० । ६ । “लतावल्लीश्च गुल्मांश्च स्थानूनश्मन एव च । जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान् ॥”)
अजमोदा । इति मेदिनी । ले, ३८ ॥ कैवर्त्तिका । चव्यम् । इति राजनिर्घण्टः ॥