संस्कृत-शब्दकोशः

वंशरोचना वशवत्तिन्

वंशलोचना

वाचस्पत्यम्

वंशलोचना is an alternate of वंशरोचना. वंशरो(लो)चना ||‍ स्त्री वंशेषु रोचते रुच—ल्यु वा रस्य लः । वंशपर्वस्थिते श्वेतवर्णे कर्पूराकारे द्रव्ये । (वंशलोचन) । “वंशजा वृंहणी वृष्या बल्या स्वाद्वी च शीतला । तृष्णाकासज्वरश्वासक्षयपित्तास्रकामलाः । हरेत् कुष्ठं प्रणं पाण्डुं कषायवातकृच्छ्रजित् भावप्र० ।


शब्दकल्पद्रुमः

वंशलोचना || स्त्री (वंशरोचना । रस्य लः ।)
वंशरोचना । इति हेमचन्द्रः ॥ अस्या गुणाः । “कषायमधुरा रूक्षा वातघ्नी वंशलोचना । तुगाक्षीरी क्षयश्वासकासघ्नी मधुरा हिमा ॥” इति राजवल्लभः ॥



Correction: