शब्दकल्पद्रुमः
वशिका || स्त्री (वशो वशीकरणं साध्यत्वेनास्त्यस्या इति । वश् + ठन् ।) अगुरुः । इति शब्द- चन्द्रिका ॥
वंशिका || स्त्री (वंशिक + टाप् ।) अगुरु । इत्यमर- टीकायां भरतः ॥ वंशी । इति शब्दरत्नावली ॥