संस्कृत-शब्दकोशः

वशीर वश्यका

वंश्य

वाचस्पत्यम्

वश्य ||‍ न० वश—यत् । १ लवङ्गे शब्दर० । २ आबत्ते त्रि० अमरः


शब्दकल्पद्रुमः

वश्यं || क्ली (वशाय वशीकरणाय साधु । “तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।)
लवङ्गम् । इति शब्दचन्द्रिका ॥


शब्दकल्पद्रुमः

वश्यः || त्रि (वशमधीनत्वं गत इति । वश् + “वशं गतः ।” ४ । ४ । ८६ । इति यत् ।)
आयत्ततां गतः । तत्पर्य्यायः । प्रणेयः २ । इत्य- मरः ॥ वशः ३ । इति शब्दरत्नावली ॥ (यथा, मार्कण्डेयपुराणे । ३९ । १७ । “मृदुत्वं सेव्यमानास्तु सिंहशाद्र्दूलकुञ्जराः । यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ॥” अग्निध्रस्य पञ्चमः पुत्त्रः । यथा, मार्कण्डेये । ५३ । ३४ । “हरिर्वर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः । वश्यश्च पञ्चमः पुत्रो हिरण्यः षष्ठ उच्यते ॥”)


वाचस्पत्यम्

वंश्य ||‍ त्रि० वंशे सत्कुले जातः यत् । सत्कुलजाते ।


शब्दकल्पद्रुमः

वंश्यः || त्रि (वंशे भवः । वंश + “दिगादिभ्यो यत् ।” ४ । ३ । ५४ । इति यत् ।)
सद्वंशजातः । तत्प- र्य्यायः । कुल्यः २ बीज्यः ३ । इति त्रिकाण्ड- शेषः ॥ (यथा, मनुः । १ । ६१ । “स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ॥” वंशोत्पन्नमात्रे च । यथा, रघुः । १८ । ४९ । “वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥” गृहोर्द्ध्वकाष्ठविशेषः । पृष्ठावयवविशेषश्च । इति वंशशब्ददर्शनात् ॥ यथा, भागवते । ११ । ८ । ३३ । “यदस्थिभिर्निर्म्मितवंशवंश्य- स्थूणं त्वचा रोमनखैः पिनद्धम् ॥”)



Correction: