संस्कृत-शब्दकोशः

वष्कय वष्कयिणी

वष्कयणी

वाचस्पत्यम्

वष्कयणी ||‍ स्त्री वष्कयमेकहायनवत्सं नयति स्थानान्तरं नी—ड गौरा० ङीष् णत्वम् । चिरप्रसूतायां गवि अमरः । जात्या समासेऽस्य परनि० गोवष्कयणो ।


शब्दकल्पद्रुमः

वष्कयणी || स्त्री (वष्कय एकहायनो वत्सः । तेन नीयते इति । नी + क्विप् । गौरादित्वात् ङीष् । “पूर्ब्बपदात् संज्ञाया- मगः । ८ । ४ । ३ । इति णत्वम् । वष्कयि- णीति पाठे । वष्कयोऽस्त्यस्या इति । “अत इनि ठनौ ।” इति इनिः । अट् कुप्वाङिति णत्वम् ।)
चिरप्रसूता गौः । इत्यमरः ॥ “वष्कते परिक्रामति वष्कयश्चिरकालीनवत्सः वक्ना इति ख्यातः । वष्क ङ गतौ नाम्नीति अयः वष्कयस्त्वेकहायनो वत्स इति कोषः तद्योगात् वष्कयिणी नैकाजादिति इन् । वष्कयणीति पाठे गोतृणेत्यादिनापामादित्वात् नः नदा- दित्वादीप् । दुष्यमुषती गवेषितवष्कयिणीति मूर्द्धन्यषमध्ये गदसिंहः ।” इति तट्टीकायां भरतः ॥



Correction: