वस्तक
वस्तगन्धा
वस्तकर्ण
वाचस्पत्यम्
वस्तकर्ण || पु० वस्तस्य कर्णः पत्राकारेऽस्त्यस्य अच् । सालवृक्षे राजनि० ।
शब्दकल्पद्रुमः
वस्तकर्णः || पुं, (वस्तस्य छागस्य कर्णाकृतिः पत्रावच्छेदे अस्त्यस्येति । वस्तकर्ण + अर्श- आदित्वादच् ।)
शालवृक्षः । इति राज- निर्घण्टः ॥