वाचस्पत्यम्
वस्तमोदा || स्त्री वस्तस्येव मोदो यस्याः । अजमोदायाम् राजनि० ।
शब्दकल्पद्रुमः
वस्तमोदा || स्त्री (वस्तं छागं मोदयतीति । मुद् + णिच् + अण् ।) अजमोदा । इति राजनिर्घण्टः ॥