वाचस्पत्यम्
वस्त्रभूषण || स्त्री वस्त्रस्य भूषणं यस्याः ५ ब० । १ मञ्जिष्ठायाम् २ साकरण्डवृक्षे च राजनि० ।
शब्दकल्पद्रुमः
वस्त्रभूषणः || पुं, (भूषयतीति । भूषि + ल्युः । वस्त्रस्य भूषणः रञ्जक इत्यर्थः ।) साकरुण्ड- वृक्षः । इति राजनिर्घण्टः ॥