वाचस्पत्यम्
वस्त्रयोनि || स्त्री ६ त० । त्वक्फलकृमिरोमादौ अमरः ।
शब्दकल्पद्रुमः
वस्त्रयोनिः || स्त्री (वस्त्रस्य योनिरुत्पत्तिकार- णम् ।) वसनोत्पत्तिकारणम् । यथा, — “त्वक्फलकृमिरोमाणि वस्त्रयोनिर्द्दश त्रिषु ॥” इत्यमरः ॥