संस्कृत-शब्दकोशः

वहन्त वहलगन्ध

वहल

वाचस्पत्यम्

वहल ||‍ पु० वह—अलन् । १ पोते हारा० २ दृढे त्रि० हेम० ।


शब्दकल्पद्रुमः

व(ब)हलः || पुं, (उह्यतेऽनेनेति । वह + बाहुलकात् अलच् ।)
पोतः । इति हारावली । १४२ ॥ दृढे, त्रि । इति हेमचन्द्रः ॥ (बहुले च यथा, उत्तरचरिते । १ । “रसावस्याः स्पर्शो वपुषि वहलश्चन्दनरसः ॥” यथा वा प्रबोधचन्द्रोदये । १ । “येन त्रि सप्तकृत्वो नृपवहलवसामांसमस्तिष्कपङ्क- प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरे- ऽभिषेकः ॥”)



Correction: