वाचस्पत्यम्
वह्निशिख || न० वह्नेरिव रक्तत्वात् शिखाऽस्य । १ कुसुम्भे अमरः । २ फलिन्यां ३ कलिकारीवृक्षे ४ धातक्याञ्च स्त्री राजनि० ६ त० । ५ अग्निशिखायां स्त्री ।
शब्दकल्पद्रुमः
वह्निशिखं || क्ली (वह्निरिव शिखा यस्य ।)
कुसु- म्भम् । इत्यमरः ॥ (अस्य पर्य्यायो यथा, —
“स्यात् कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)