वाचस्पत्यम्
वह्य || न० वह—यत् । १ शकटे २ वाहनमात्रे च हेमच० । ३ मुनिपत्न्यां स्त्री उणा० ।
शब्दकल्पद्रुमः
वह्यं || क्ली (वहतीति । वह + “अघ्न्यादयश्च ।” उणा० ४ । १११ । इति यक् प्रत्ययेन साधुः ।)
वाहनम् । इति हेमचन्द्रः ॥ (वहन्त्यनेनेति । वह + “वह्यं करणम् ।” ३ । १ । १०२ । इति यत् ।)
शकटम् । इत्युणादिकोषः ॥ (यथा, अथर्व्ववेदे । ४ । २० । ३ । “सा भूमिमा रुरोहिथ वह्यं श्रान्ता बधू- रिव ॥”)